Ganpati Stotra

संकटनाशनं श्री गणेशस्तोत्रम्

॥श्री गणेशाय नम:॥

॥नारद उवाच॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ॥
भक्तावासं स्मरेन्नित्यामायु: कामार्थ सिध्ध्ये ॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ॥
तृतीयं कृष्णपिंगाक्षं गजवकत्रं चतुर्थकम् ॥2॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ॥
सप्तमं विन्धराजं च धूम्रवर्ण तथाSष्टमम्।
नवमम् भालचन्द्रम् दशमं तु विनायकम् ॥
ऐकादशं गणपति द्वादशं तु गजाननम् ॥4॥
द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ॥
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥5॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥
जपेद्द गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभते ॥
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥
अष्टानां ब्राह्मणानां च लिखित्वा य: समर्पयेत् ॥
तस्यविद्या भवेत्सर्वा गणेशस्यप्रसादत: ॥8॥
॥ इतिश्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रम् सम्पूर्णम् ॥